|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.300. अध्यायः 300
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वर्णधर्मादिप्रतिपादकपराशरगीतानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
पराशर उवाच। 12-300-0x(6447)(77438)
प्रतिग्रहार्जिता विप्रे क्षत्रिये युधि निर्जिताः।
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः॥ 12-300-1(77439)
स्वल्पाऽप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः।
नित्यं त्रयाणां वर्णानां शुश्रूषुः शूद्र उच्यते॥ 12-300-2(77440)
क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतते द्विजः।
शूद्रधर्मा यदा तु स्यात्तदा पतति वै द्विजः॥ 12-300-3(77441)
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजिवनम्।
सूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते॥ 12-300-4(77442)
रङ्गावतरणं चैव तथा रूपोपजीवनम्।
मद्यमांसोपजीव्यं च विक्रयं लोहचर्मणोः॥ 12-300-5(77443)
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम्।
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रूतिः॥ 12-300-6(77444)
संसिद्धः पुरुषो लोके यदाचरति पापकम्।
मदेनाभिप्लुतमनास्तच्च न ग्राह्यमुच्यते॥ 12-300-7(77445)
श्रूयन्ते हि पुराणेषु प्रजा धिग्दण्डशासनाः।
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवृत्तिकाः॥ 12-300-8(77446)
धर्म एव सदा नॄणामिह राजन्प्रशस्यते।
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि॥ 12-300-9(77447)
तं धर्ममसुरास्तात नामृष्यन्त नराधिप।
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः॥ 12-300-10(77448)
तासां दर्पः समभवत्प्रजानां धर्मनाशनः।
दर्पात्मनां ततः पश्चात्क्रोधस्तासामजायत॥ 12-300-11(77449)
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम्।
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत॥ 12-300-12(77450)
ततो मोहपरीतास्ता नापश्यन्त यथा पुरा।
परस्परावमर्देन वर्धयन्त्यो यथासुखम्॥ 12-300-13(77451)
ताः प्राप्य तु स धिग्दण्डो न कारणमतो भवत्।
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह॥ 12-300-14(77452)
एतस्मिन्नेव काले तु देवा देववरं शिवम्।
अगच्छञ्शरणं धीरं बहुरूपं गुणाधिकम्॥ 12-300-15(77453)
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ।
त्रिधाऽप्येकेन बाणेन देवाप्यायिततेजसा॥ 12-300-16(77454)
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः।
देवतानां भयकरः स हतः शूलपाणिना॥ 12-300-17(77455)
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः।
प्रावर्तन्त च वै वेदाः शास्त्राणि च यथा पुरा॥ 12-300-18(77456)
ततोऽभिषिच्य राज्येन देवानां दिवि वासवम्।
सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे॥ 12-300-19(77457)
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः।
राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक्॥ 12-300-20(77458)
महाकुलेषु ये जाता वृद्धाः पूर्वतराश्च ये।
तेषामप्यासुरो भावो हृदयान्नापसर्पति॥ 12-300-21(77459)
तस्मात्तेनैव भावेन सानुषङ्गेण पार्थिवाः।
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः॥ 12-300-22(77460)
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्त्यपि।
भजन्ते तानि चाद्यापि ये बालिशतरा नराः॥ 12-300-23(77461)
तस्मादहं ब्रवीमि त्वां राजन्संचिन्त्य शास्त्रतः।
संसिद्धावागमं कुर्यात्कर्म हिंसात्मकं त्यजेत्॥ 12-300-24(77462)
न संकरेण द्रविणं प्रचिन्वीयाद्विचक्षणः।
धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते॥ 12-300-25(77463)
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः।
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय॥ 12-300-26(77464)
इष्टानिष्टसमायोगे वैरं सौहार्दमेव च।
अथ जातिसहस्राणि बहूनि परिवर्तते॥ 12-300-27(77465)
तस्माद्गुणेषु रज्येथा मा दोषेषु कथंचन।
निर्गुणोऽपि हि दुर्बुद्धिरात्मनः सोतिरिच्यते॥ 12-300-28(77466)
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः।
न तथाऽन्येषु भूतेषु मनुष्यरहितेष्विह॥ 12-300-29(77467)
धर्मशीलो नरो विद्वानीहकोऽनीहकोपि वा।
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसया॥ 12-300-30(77468)
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै।
नानृतं चैव भवति तदा कल्याणमृच्छति॥ ॥ 12-300-31(77469)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिशततमोऽध्यायः॥ 300॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-300-1 प्रतिग्रहागता विप्रे इति झ. थ. पाठः॥ 12-300-3 न पतत इति संबन्धः। क्षत्रधर्माद्वैश्यधर्मान्नापन्नः पतते द्विज इति ध. पाठः॥ 12-300-4 शिल्पं चित्रलेखनादि। वृत्तिः सेवारूपा॥ 12-300-5 रङ्गे ख्यादिवेषेण अवतरणम्॥ 12-300-6 अपूर्विणा येन पूर्वं मद्याद्युपजीवनं न कृतं सोऽपूर्वी तेन तन्न कर्तव्यम्॥ 12-300-7 संसिद्धो लब्धान्नवस्त्रादिः॥ 12-300-9 धर्मवृद्ध्या गुणानेवेति थ. पाठः॥ 12-300-12 अनशत् अनवयत॥ 12-300-16 त्रिदैवत्येन वाणेनेति ध. पाठः। वाणेन देवस्यामिततेजस इति थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|